नागयज्ञोपवीदाय नतविघ्नविनाशिने ।
नंद्यादि गणनाथाय नायकायास्तु मंगलम् ॥ २ ॥
इभवक्त्राय चेंद्रादि वंदिताय चिदात्मने ।
ईशानप्रेमपात्राय नायकायास्तु मंगलम् ॥ ३ ॥
सुमुखाय सुशुंडाग्रात्-क्षिप्तामृतघटाय च ।
सुरबृंद निषेव्याय चेष्टदायास्तु मंगलम् ॥ ४ ॥
चतुर्भुजाय चंद्रार्धविलसन्मस्तकाय च ।
चरणावनतानंततारणायास्तु मंगलम् ॥ ५ ॥
वक्रतुंडाय वटवे वन्याय वरदाय च ।
विरूपाक्ष सुतायास्तु मंगलम् ॥ ६ ॥
प्रमोदमोदरूपाय सिद्धिविज्ञानरूपिणे ।
प्रकृष्टा पापनाशाय फलदायास्तु मंगलम् ॥ ७ ॥
मंगलं गणनाथाय मंगलं हरसूनने ।
मंगलं विघ्नराजाय विघहर्त्रेस्तु मंगलम् ॥ ८ ॥
श्लोकाष्टकमिदं पुण्यं मंगलप्रद मादरात् ।
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ॥
॥ इति श्री गणेश मंगलाष्टकम् ॥